Tuesday 12 July 2011

श्री कपिलमुनि पञ्चकम्

अनाद्यनन्तं कमनीयवर्चसं समाधिनिष्ठं ननु कोविदां वरम्।
वरेण्य कीर्तिं कमलासना दिवि नमामि सिद्धं कपिलं महाप्रभुम् ॥1
कृपा परेशं परपक्षसाधकं स्वमातरं सांख्यमतञ्च दर्शकम् ।
सतां समक्षं समवस्थितं मुनिं नमामि शान्तं कपिलं महाप्रभुम् ॥ 2
हितं  हि लोकस्य विचिन्त्य तेजसा ददाः यो वै सगरात्मजानरुषा।
सनातनं तं सकलार्थदं विभुं नमामि सन्तं कपिलं महाप्रभुम् ॥ 3
विलोक्यलोके विधिहीनतामिना समुपद्दिष्टं भुवि सांख्यदर्शनम्।
परात्परं तं परमार्थ बोधकं नमामि सौम्यं कपिलं महाप्रभुम् ॥ 4
स्मरामि नित्यं हृदि कर्दमात्मजं विशिष्टबोधाकर्देवहुतिजम्।  
सदा सदाचार विचारपोषकं नमामि सत्यं कपिलं महाप्रभुम् ॥ 5
जिज्ञासुनां प्रबोधाय कपिलप्रीति हेतवे
विरच्यते हि पञ्चकमनन्तसमुद्धारधीः॥
 वंशस्थ वृतम् (जतौ तु वंशस्थमुदीरितं जरौ)

No comments:

Post a Comment